|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.87. अध्यायः 087
Mahabharata - Drona Parva - Chapter Topics
द्रोणेन शकटव्यूहनिर्माणम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-87-0x(4486)(47984)
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः।
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः॥ 7-87-1(47985)
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम्।
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम्॥ 7-87-2(47986)
विष्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च।
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः॥ 7-87-3(47987)
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान्।
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः॥ 7-87-4(47988)
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षिताः।
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः॥ 7-87-5(47989)
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः।
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्। 7-87-6(47990)
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः।
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः॥ 7-87-7(47991)
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः।
सङ्ग्राममनसः शूरास्तत्रतत्र व्यवस्थिताः॥ 7-87-8(47992)
क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः।
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा॥ 7-87-9(47993)
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम्।
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः॥ 7-87-10(47994)
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु।
भारद्वाजो महाराज जयद्रथमथाब्रवीत्॥ 7-87-11(47995)
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः।
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा॥ 7-87-12(47996)
शतं चाश्वसहस्राणां रथानामयुतानि षट्।
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश॥ 7-87-13(47997)
पदातीनां सहस्राणि दंशितान्येकविंशतिः।
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत॥ 7-87-14(47998)
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः।
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव॥ 7-87-15(47999)
सञ्जय उवाच। 7-87-16x(4487)
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः।
सम्प्रायात्सहगान्धारैर्वृतस्तैश्च महारथैः।
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिहयस्थितैः॥ 7-87-16(48000)
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः।
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः॥ 7-87-17(48001)
ते चैकसप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः॥ 7-87-18(48002)
मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः।
हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्॥ 7-87-19(48003)
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव।
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः॥ 7-87-20(48004)
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ।
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ॥ 7-87-21(48005)
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः।
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः॥ 7-87-22(48006)
नानानृपतिभिर्वीरैस्तत्रतत्र व्यवस्थितैः।
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम्॥ 7-87-23(48007)
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः।
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः॥ 7-87-24(48008)
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः।
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः॥ 7-87-25(48009)
अनन्तरं च काम्भोजो जलसन्धश्च मारिष।
दुर्योधनश्च कर्णश्च तदनन्तरमेव च॥ 7-87-26(48010)
ततः शतसहस्राणि योदानानमनिवर्तिनाम्।
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम्॥ 7-87-27(48011)
तेषां च पृष्ठतो राजा बलेन महता वृतः।
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः॥ 7-87-28(48012)
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः।
नात्र तस्याभवद्भोदो जुगोपैनं ततः स्वयम्॥ 7-87-29(48013)
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः।
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः।
`तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान्'॥ 7-87-30(48014)
ताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्।
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्॥ 7-87-31(48015)
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत्।
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्॥ 7-87-32(48016)
सशैलसागरवनां नानाजनपदाकुलाम्।
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे॥ 7-87-33(48017)
बहुरथमनुजाश्वपत्तिनागं
प्रतिभयनिःस्वनमद्भुतानुरूपम्।
अहितहृदयभेदनं महद्वै
शकटमवेक्ष्य कृतं ननन्द राजा॥ ॥ 7-87-34(48018)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिसयुद्धे सप्ताशीतितमोऽध्यायः॥ 87 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-87-4 पीतान् पायितोदकान्॥ 5-87-9 क्वचेति चकार इत्यर्थे। इत्याह्वयन्त इत्यन्वयः॥ 5-87-14 त्रिमात्रासु त्रिसख्यासु तिसृष्वित्यर्थः॥ 5-87-22 पश्चार्धे पश्चाद्भागे पञ्चगव्यूतिः। चक्रशकटः चक्रगर्भः शकटः॥ 5-87-34 अद्भुतानुरूपमाश्चर्यरूपं एतत्समययोग्यं च॥ 5-87-87 सप्ताशीतितमोऽध्यायः॥ 87 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|